पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२२
उमामहेश्वरस्तोत्रम् ।


नमः शिवाभ्यां जगदीश्वराभ्यां
 जगत्पतिभ्यां जयविग्रहाभ्याम्
जम्भारिमुख्यैरभिवन्दिताभ्यां
 नमो नमः शंकर पार्वतीभ्याम ॥४॥

नमः शिवाभ्यां परमौषधाभ्यां
 पञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ ५ ॥

नमः शिवाभ्यामतिसुन्दराभ्या-
 मत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशेषलोकैकहितंकराभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ ६ ॥

नमः शिवाभ्यां कलिनाशनाभ्यां
 कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदेवताभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ ७॥