पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२३
उमामहेश्वरस्तोत्रम् ।


नमः शिवाभ्यामशुभापहाभ्या-
 मशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ ८॥

नम: शिवाभ्यां रथवाहनाभ्यां
 रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ ९॥

नम: शिवाभ्यां जटिलंधराभ्यां
 जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ १०॥

नम: शिवाभ्यां विषमेक्षणाभ्यां
 बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावतीशान्तवतीश्वराभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ ११ ॥