पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

॥ उमामहेश्वरस्तोत्रम् ॥

नमः शिवाभ्यां नवयौवनाभ्यां
 परस्पराश्लिष्टवपुर्धराभ्यां ।
नगेन्द्रकन्यावृषकेतनाभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ १ ॥

नमः शिवाभ्यां सरसोत्सवाभ्यां
 नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ २ ॥

नमः शिवाभ्यां वृषवाहनाभ्यां
 विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम ।
विभूतिपाटीरविलेपनाभ्यां
 नमो नमः शंकरपार्वतीभ्याम् ॥ ३ ॥