पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः॥
॥ शिवपञ्चाक्षरस्तोत्रम् ॥


नागेन्द्रहाराय विलोचनाय
 भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय
 तस्मै नकाराय नमः शिवाय ॥१॥

मन्दाकिनीसलिलचन्दनचर्चिताय
 नन्दीश्वरप्रमथनाथमहेश्वराय ।
मन्दारमुख्यबहुपुष्पसुपूजिताय
 तस्मै मकारमहिताय नमः शिवाय ॥२॥

शिवाय गौरीवदनाब्जबृन्द-
 सूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय
 तस्मै शिकाराय नमः शिवाय ॥३॥