पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२०
शिवपञ्चाक्षरस्तोत्रम् ।


वसिष्टकुम्भोद्भवगौतमार्य-
 मुनीन्द्रदेवार्चितशेखराय ।
चन्द्रार्कवैश्वानरलोचनाय
 तस्मै वकारांय नमः शिवाय ॥४॥

यक्षस्वरूपाय जटाधराय
 पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय
 तस्मै यकाराय नम: शिवाय ॥ ५॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवत: कृतौ
शिवपञ्चाक्षरस्तोत्रं संपूर्णम् ॥