पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११८
शिवनामावल्यष्टकम् ।


विश्वेश विश्वभवनाशक विश्वरूप
 विश्वात्मक त्रिभुवनैकगुणाधिकेश ।
हे विश्वनाथ करुणामय दीनबन्धो
 संसारदुःखगहनाज्जगदीश रक्ष ।। ८॥

गौरीविलासभवनाय महेश्वराय
 पञ्चाननाय शरणागतकल्पकाय।
शर्वाय सर्वजगतामधिपाय तस्मै
 दारिद्र्यदुःखदहनाय नम: शिवाय ॥ ९ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
शिवनामावल्यष्टकं संपूर्णम् ॥