पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
पाण्डरनाष्टकम् ।


अजं रुक्मिणीप्राणसंजीवनं तं
 परं धाम कैवल्यमेकं तुरीयम् ।
प्रसन्नं प्रपन्नार्तिहं देवदेवं
 परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ८ ॥

स्तवं पाण्डुरङ्गस्य वै पुण्यदं ये
 पठन्त्येकचित्तेन भक्त्या च नित्यम् ।
भवाम्भोनिधिं तेऽपि तीर्त्वान्तकाले
 हरेरालयं शाश्वतं प्राप्नुवन्ति ॥ ९ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रामच्छंकरभगवतः कृतौ
पाण्डुरङ्गाष्टकं सम्पूर्णम् ॥