पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री ॥

॥ अच्युताष्टकम् ॥


अच्युतं केशवं रामनारायणं
 कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं
 जानकीनायकं रामचन्द्रं भजे ॥ १ ॥

अच्युतं केशवं सत्यभामाधवं
 माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं
 देवकीनन्दनं नन्दजं सन्दधे ॥ २ ॥

विष्णवे जिष्णवे शङ्खिने चक्रिणे
 रुक्मणीरागिणे जानकीजानये ।
वल्लवीवल्लभायार्चितायात्मने
 कंसविध्वंसिने वंशिने ते नमः ॥ ३ ॥