पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७
पाण्डुरङ्गाष्टकम् ।

स्फुरत्कौस्तुभालंकृतं कण्ठदेशे
 श्रिया जुष्टकेयूरकं श्रीनिवासम् ।
शिवं शन्तमीड्यं वरं लोकपालं
 परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ४ ॥

शरच्चन्द्रबिम्बाननं चारुहासं
 लसत्कुण्डलाक्रान्तगण्डस्थलान्तम् ।
जपारागबिम्बाधरं कञ्जनेत्रं
 परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ५ ॥

किरीटोज्ज्वलत्सर्वदिक्प्रान्तभागं
 सुरैरर्चितं दिव्यरत्नैरनर्घैः ।
त्रिभङ्गाकृतिं बर्हमाल्यावतंसं
 परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ६ ॥

विभुं वेणुनादं चरन्तं दुरन्तं
 स्वयं लीलया गोपवेषं दधानम् ।
गवां वृन्दकानन्ददं चारुहासं
 परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ७ ॥