पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री ॥

॥ पाण्डुरङ्गाष्टकम् ॥


महायोगपीठे तटे भीमरथ्या
 वरं पुण्डरीकाय दातुं मुनीन्द्रैः ।
समागत्य तिष्ठन्तमानन्दकन्दं
 परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ १ ॥

तडिद्वाससं नीलमेघावभासं
 रमामन्दिरं सुन्दरं चित्प्रकाशम् ।
वरं त्विष्टकायां समन्यस्तपादं
 परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ २ ॥

प्रमाणं भवाब्धेरिदं मामकानां
 नितम्बः कराभ्यां धृतो येन तस्मात् ।
विधातुर्वसत्यै धृतो नाभिकोशः
 परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ३ ॥