पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५
विष्णुपादादिकेशा तस्तोत्रम् ।


मोदात्पादादिकेशस्तुतिमितिरचितां कीर्तयित्वा त्रिधाम्नः
 पादाब्जद्वन्द्वसेवासमयनतमतिर्मस्तकेनानमेद्यः ।
उन्मुच्यैवात्मनैनोनिचयकवचकं पञ्चतामेत्य भानो-
 र्बिम्बान्तर्गोचरं स प्रविशति परमानन्दमात्मस्वरूपम् ॥ ५२ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
विष्णुपादादिकेशान्तस्तोत्रम्
सम्पूर्णम् ॥