पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ललितात्रिशतीभाष्यम् । साक्षात्कामेशकामेशीकृतेऽस्मिन्गृह्यतामिति । सकृत्सकीर्तनादेव नाम्नामस्मिञ्शतत्रये ॥४६॥ भवेच्चित्तस्य पर्याप्तिन्यूनमन्यानपेक्षिणी । न ज्ञातव्यमितोऽप्यन्यन्न जप्तव्य च कुम्भज।। यद्यत्साध्यतमं कार्यं तत्तदर्थमिद जपेत् । तत्सत्फलमवाप्नोति पश्चात्कार्यं परीक्षयेत् ॥ ये ये प्रयोगास्तन्त्रेषु तैस्तैर्यत्साध्यते फलम् । तत्सर्वं सिध्यति क्षिप्र नामत्रिशतकीर्तनात् ॥ आयुष्कर पुष्टिकर पुत्रद वश्यकारकम् । विद्याप्रद कीर्तिकर सुकवित्वप्रदायकम् ॥५०॥ सर्वसंपत्प्रद सर्वभोगद सर्वसौख्यदम् । सर्वाभीष्टप्रद चैव देव्या नामशतत्रयम् ॥११॥ एतज्जपपरो भूयान्नान्यदिच्छेत्कदाचन । एतत्कीर्तनसंतुष्टा श्रीदेवी ललिताम्बिका ।।