पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । भक्तस्य यदिष्टं स्यात्तत्तत्पूरयते ध्रुवम् । तस्मात्कुम्भोद्भव मुने कीर्तय त्वमिदं सदा ।। नापरं किंचिदपि ते बोद्धव्यं नावशिष्यते । इति ते कथितं स्तोत्रं ललिताप्रीतिदायकम् ॥ नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन । न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ॥ यो ब्रूयात्त्रिशतीं नाम्ना तस्यानर्थो महान्भवेत् । इत्याज्ञाशाकरी प्रोक्ता तस्मागोप्यमिदं त्वया। ललिताप्रेरितनैव मयोक्तं स्तोत्रमुत्तमम् । रहस्यनामसाहस्रादपि गोप्यमिद मुने ॥ ५७ ।। एवमुक्त्या हयग्रीव कुम्भज तापसोत्तमम् । स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुन्द्रीम् ॥ आनन्दलहरीमनमानसः समवर्तत ॥ ५९॥ इति श्रीललितात्रिशतीस्तोत्रं सपूर्णम् ॥