पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ललिलात्रिशतीभाष्यम् । दिवसे दिवसे विप्रा भोज्या विंशतिसंख्यया। दशभिः पञ्चभिर्वापि त्रिभिरेकेन वा दिनै ॥ त्रिंशत्यष्टि शतविप्रा सभोज्यास्त्रिंशतः क्रमात् एवं यः कुरुते भक्त्या जन्ममध्ये सकृन्नरः ॥ तस्यैव सफलं जन्म मुक्तिस्तस्य करे स्थिरा। रहस्यनामसाहस्रभोजनेऽप्येवमेव हि ॥ ४१ ॥ आदौ नित्यबलिं कुर्यात्पश्चाद्ब्राह्मणभोजनम् । रहस्यनामसाहस्रमहिमा यो मयोदितः॥४२॥ सशीकराणुरत्रैकनाम्नो महिमवारिधेः । वाग्देवीरचिते नामसाहस्रे यद्यदीरितम् ॥४३॥ सत्फल कोटिगुणित नाम्नोऽप्येकस्य कीर्तनात् । एतदन्यैर्जपै स्तोत्रैरर्चनैर्यत्फलं भवेत् ॥ ४४ ॥ तत्फलं कोटिगुणितं भवेन्नामशतत्रयात् । वाग्देवीरचिस्तोत्रे तादृशो महिमा यदि ॥