पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् ।

नन्दब्रह्मास्वरूपतया सैव फलं भवति, अन्यज्ञानादन्यफलप्राप्तेरयोगात् । ब्रह्म वेद ब्रह्मैव भवति । सरति शोकमात्मवित्', 'येन मामुपयान्ति ते । तेषामहं समुद्धर्ता मृत्युसंसारसागरात्' 'ब्रह्मैव सन् ब्रह्माप्यति' इत्यादिश्रुतिस्मृतिशतेभ्य स्वस्वरूपप्राप्तरेव पुरुषार्थस्य प्रदातृत्वं सिद्धम् ॥ ॐ ह्रींकारपरसौख्यदायै नमः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छकरभगवतः कृतौ श्रीललितात्रिशतीभाष्यमं संपूर्णम् ॥ इत्येव ते मयाख्यातं देव्या नामशतत्रयम् । रहस्यातिरहस्यत्वागोपनीयं त्वया मुने । शिववर्णानि नामानि श्रीदेव्या कथितानि हि। शक्त्यक्षराणि नामानि कामेशकथितानि च ।। उभयाक्षरनामानि ह्युभाभ्यां कथितानि वै । तदन्यैर्ग्रथितं स्तोत्रमेतस्य सदृशं किमु ॥ ३॥ नानेन सदृशं स्तोत्रं श्रीदेवीप्रीतिदायकम् । लोकत्रयेऽपि कल्याणं संभवेन्नात्र सशयः ॥