पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् ।

पतित्वसर्वदेवोत्तमत्वसकलसुन्दरतमत्वगुणा इव विष्णो र्ह्रींकारार्णवविद्योतमानहींकारदेवतोपासकस्यापि नारायणाभेदेन श्रीकान्तत्वादिधर्मा स्वत एव सिध्यन्तीति कौस्तुभपदेन ध्वनितमिति द्रष्टव्यम् ॥ ॐ ह्रींकारार्णवकौस्तुभायै नमः ॥ ह्रींकारमन्त्रसर्वस्वा । सर्वाणि च तानि स्वानि च धनानि अणिमाद्यष्टैश्वर्यजनकत्वादीनि तानि तथा । ह्रींकारघटिता ह्रींकारो वा तेषां सर्वस्वा सकलसंपत् सर्वार्थसाधकशक्तिरित्यर्थः ॥ ॐ ह्रींकारमन्त्रसर्वस्वायै नमः ।। ह्रींकारपरसौख्यदा । ह्रींकारपरा हींकारमन्त्रजपपरा ह्रींकारघटितश्रीविद्याजपपरा वा । तेषां सौख्य चतुर्विधपुरुषार्थप्राप्तिजन्यानन्द तद्दातीति तथा । ह्रींकाराणां व्यष्टिरूपेण वाच्यार्थना त्रिमूर्तीना पर सौख्य सामरस्यसुख एकीभावानन्द ददातीति वार्थः । 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा । यत्रान्यत्पश्यत्यन्यन्छृणोत्यन्यद्विजानाति तदल्पम्' 'नाल्पे सुखमस्ति' इति, आनन्द ब्रह्मणो विद्वान् न बिभेति कुतश्चन' इति यदा ह्मवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभय प्रतिष्ठा विन्दते । अथ सोऽभय गतो भवति', 'विज्ञानमानन्द ब्रह्म रातिर्दातु परायणम्' इत्यादिबहुश्रुतिभ्य अखण्डसचिदा