पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् ।

पशामकत्वेन च ह्रींकारस्य नन्नापमा । तत्र सर्वार्थप्रदातृत्वेन कामेश्वरालिङ्गितकोमलतरसुन्दरमूर्त्या विशिष्टपुरुषार्थचतुष्टयकल्पनेन सगुणनिर्गुणोपासकाना तद्देवतात्मना प्राधान्येन समष्टिरूपतया सादृश्येन नवकल्पकवल्लरीत्युज्यत इति भावः ।। ॐ ह्रीकारनन्दनारामनवकल्पकवल्लर्यै नमः ॥ हींकारहिमवद्गङ्गा ह्रींकारार्णवकौस्तुभा । ह्रींकारमन्त्रसर्वस्वा ह्रींकारपरसौख्यदा ।। ह्रींकारहिमवद्गङ्गा । हिमान्यस्मिन् सन्तीति हिमवान् शीतलपर्वतराज । ह्रींकारस्य अमृतादिसाधकतया शीतलता बोध्या । तस्माद्गङ्गेव पावनी सर्वपुरुषार्थप्रदा मन्त्रदवतात्मनाभिव्यक्तेत्यर्थः ॥ ॐ ह्रींकाराहिमवद्गायै नमः॥ ह्रींकारार्णवकौस्तुभा । कौस्तुभ क्षीराब्धिजन्मसु चतुर्दशरत्नेषु यथा श्रेष्ठ सर्वाधिकप्रकाशादिगुणतया, तथा परदेवतापि अपारमहिमापरिच्छिन्नह्रींकारमन्त्रवेद्यत्वेन तन्नि ष्पन्ना सती 'अत्राय पुरुष स्वय ज्योति ' इति श्रुते स्वयं प्रकाशतया विद्योतत इत्यर्थः । अत्र कौस्तुभहृदयस्य लक्ष्मी