पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् ।

दक्षिणा पत्नी' इति वचनात् । ज्ञानयज्ञेन तेनाहमिष्ट स्यामिति मे मति ' इति भगवद्वचनात् । ह्रींकारलक्ष्यार्थज्ञानमेव ह्रींकारावर ह्रींकारज्ञानयज्ञ , 'प्रधान दक्षिणा मखे'इति वचनात् दक्षिणावरफलभूतत्वेन प्रधानभूतेति वा । देवतोद्दशेन द्रव्यत्यागो याग इत्युच्यते । त्यक्तद्रव्यस्य अग्नौ प्रक्षेपो होम । ऋत्विगुद्देशेन वेद्यामर्थविभागो दक्षिणा। अर्थिभ्य वेदिबहिर्देशेऽर्थविभागो दानमिति तेषां भेदः ॥ ॐ ह्रींकाराध्वरदक्षिणायै नमः ॥ ह्रींकारनन्दनारामनवकल्पकवल्लरी । नन्दयत्यानन्दयतीति नन्दन स चासौ आरामश्च तथा । देवेन्द्रोद्यान विचित्रस्वरूपतया विजातीयार्थकत्वात् । डकार एव नन्दना राम सुखकर्तृविश्रामभूमि , तस्य नवा नूतना अतिकोमलेत्यर्थः । कल्पयतीति कल्पका कल्पका च सा वल्लरी चेति तथा । देवोद्याने विद्यमानानां वृक्षगुल्मलताहणादीनाम् एतल्लोकातिशायिपुष्पफलादिमत्वेऽपि न सर्वोत्तमताप्रसिद्धि । कल्पवल्ल्यास्तु यथाकर्म यथासेवमुपासकना सर्वार्थप्रदानशक्तिमत्त्वेन सर्वोत्कृष्टता । तथा ब्रह्मविष्णुरुद्राणां तद्वाचकवर्णभेदानाम् अन्योन्यसबन्धतया एकत्र प्रतीयमानस्वेन चिरजीवित्वफलादिप्रदानेन आनन्दकतया ससारता