पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् ।

महाप्रलये संरक्ष्य सर्गादौ जायमानहिरण्यगर्भस्यान्यूनानतिरेकेण तानेव प्रतिभासयति स्वयं दंपती भूत्वा तदुकधर्माननुष्ठाय परेषामप्यनुष्ठापयतीति च । 'वेदशास्त्रे ममैवाज्ञे वर्त एव च कर्मणि । यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्' इत्यादिभगवद्वचनादिति द्रष्टव्यम् ॥ ॐ लब्धनानागमस्थित्यै नमः॥ लब्धभोगा लब्धमुखा लब्धहर्षाभिपूजिता। ह्रींकारमूर्तिह्रींकारसौधशृङ्गकपोतिका ॥५४॥ लब्धभोगा । भोग सुखमात्रानुभव दुखानुभवे उच्यमाने जीवाविशेषप्रसङ्गात् । लब्ध भोग यया सा तथा । जीववत् क्रमिकस्वेष्टपदार्थानुभवानन्तरकालीन सुखं न भवति, स्वस्या आनन्दरूपत्वेन सिद्धस्वरूपत्वात् , साधनभूतभोगोऽप्येतद्विषये सिद्ध इत्युपचर्यते इति लब्धभोगेत्युच्यते ।। ॐ लब्धभोगायै नमः ॥ लब्धसुखा । लब्धं सुख अनुकूलवेदनीय स्वस्वरूपभूत सुख तत्साधनं च धर्म यया सा तथा ॥ ॐ लब्धसुखायै नमः ॥