पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् ।

लब्धहर्षाभिपूरिता । लब्ध या हर्ष तृप्तिनिमित्तकचित्तोल्लासविशेष मुखप्रसादशरीरपुष्ट्यादिकार्योन्मेय जगत्या स्वाभीष्टपदार्थानुभवादिजन्य संतोष इति प्रसिद्ध , तेनाभिपूरिता अभितः समन्तादन्यूनानतिरेकेणाविच्छिन्नरूपतया पूरिता भरिता । तद्विपरीतदुःखाद्यनुत्पादेन तन्मात्रसमाश्रया नित्यप्रसन्नमुखीत्यर्थः ॥ ॐ लब्धहर्षाभिपूरितायै नमः ।। ह्रींकारमूर्ति । वाच्यवाचकताभेदसबन्धेन ह्रीकार मूर्ति विग्रहो यस्था सा तथा ॥ ॐ ह्रींकारमूर्त्यै नमः ॥ ह्रींकारसौधशतकपोतिका । सुधामय सौधम् , सुधाविकार अट्टालिकेत्यर्थः , तस्य शृङ्गं शिखर चन्द्रशालादिभित्त्युपरिभाग , निरुपाधिकविश्रान्तिजन्यसुखानुभवहेतुतया ह्रींकारस्य सौधोपमा , तत्र हकारस्य श्रेतवर्णतया अट्टालिकसादृश्यम्, रेफस्य लोहितरूपतया इष्टकादिकृता घोभित्त्युपमा, इकारोपरि ईकारस्य शृङ्गोपमा, ऊर्ध्वगत्वसाम्यात् , तदुपरितनबिन्दु सर्वप्रकातभूतशब्दार्थात्मकतया तदवयवत्वेन विचित्रस्वरूपोऽपि सूक्ष्मतया अपवरकगतकपोतकान्तेव जागरूक दृश्यत इति तदर्थत्वेन परदवतोपमानशब्देनाभिधीयत इति भावः ।। ॐ हींकारसौषशृङ्गकपोतिकायै नमः ॥