पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् ।

वयवविन्यासविशेषत्वेन सर्वमोहरमूर्तिवतीत्यर्थः 'न तस्य प्रतिमास्ति' इति श्रुतेः ॥ ॐ लब्धातिशयसर्वाङ्गसौन्दर्यायै नमः ॥ लन्धविभ्रमा । विभ्रमो बालक्रीडा लब्धा यया सा तथा, सर्वात्मकतया सर्वकर्तृत्वादिति भावः ॥ ॐ लब्धविभ्रमायै नमः ॥ लब्धरागा । लब्ध सजातीयो राग काम 'सोऽका-मयत' इति श्रुत्या जगत्सर्जनस्य कामनापूर्वकत्वप्रतिपादनात्, लब्धो रागो यया सा तथा इत्यर्थः ॥ ॐ लब्धरागायै नमः ॥ लब्धपति । लब्ध स्वेच्छयैव स्वयंवरे पतिः कामेश्वरो यया सा तथा ॥ ॐ लब्धपतये नमः ॥ लब्धनानागमस्थिति । आ मम तात नानाप्रकारैः कर्मोपासनाज्ञानकाण्डतदकत्वादिभिः गमयन्ति स्वार्थान् प्रकाशयन्तीत्यागमा वेदा नाना अनेकशाखाप्रभिन्नसामादय तेषा स्थितिः परिपालन लब्धा यया सा तथा । नानागमस्थिति वेदचतुष्टयोक्तमर्यादा काण्डनयविषया लब्धा यया सेति वा । संसारस्थानादित्वेन निरपेक्षप्रमाणभूतान् वेदान् ‘सर्वे वेदा यत्रैक भवन्ति' इति श्रुतेः स्वस्वरूपभूतान्