पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् ।

त्वविद्यमानारोपिता इति निष्कर्षार्थः ॥ ॐ लब्धवृद्ध्यै नमः।। लब्धलीला । लीला अन्यप्रयोजनार्थव्यापारा स्वहर्षमात्रहेतुका वा, तत्सत्कालोचितशृङ्गारादिनवरसाङ्गीकारसमये तदुचितभङ्गीविशेषा वा लब्धा यया सा तथा ॥ ॐ लब्धलीलायै नम: ॥ लब्धयौवनशालिनी ।अस्तित्वजननवर्धनभावविकारावस्था बाल्यम्, परिणामः अपक्षयो नाश, उत्तरावस्था जरा, दहाभावेन तदुभयनिषेधे अर्थाद्यौवनम् , यौति गच्छत्तीति युवा दृढबलवीर्य , तस्य भावः योवन तदुमयवयोऽवस्थाराहित्येनैकस्वरूपता, तलब्ध प्राप्त यौवन यया सा तथा 'अजरोऽमृतोऽभयो ब्रह्म' इति श्रुतेः सर्वदा एकप्रकारस्वरूपवतीत भावः || ॐ लब्धयौवनशालिन्यै नमः॥ लब्धातिशयसर्वाङ्गसौन्दर्या लब्धविभ्रमा। लब्धरागा लब्धपतिर्लब्धनानागमस्थितिः ॥ लब्धातिशयसर्वाङ्गसौन्दर्या । सुन्दरो रुचिरस्तस्य भावः सौन्दर्यम् , अवयवानां सर्वेषां सौन्दर्यमतिशायि सर्वाङ्गेषु सर्वावयवेषु लब्ध यया सा तथा, यथाशास्त्रोक्ता