पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । 5 हरिगोपारुणाशुका । हरिगोप इन्द्रगोप आद्रामघा- नक्षत्रे वर्षासूद्भवा अष्टपादा रक्तवर्णा मृद्वङ्गा कीटवि- शेषा , तथा शोणमशुक अम्बरम् , स्वार्थे कप्रत्यय , किरणानि वा यस्या सा तथा । ॐ हरिगोपारुणांशु- कायै नम ॥ लकारख्या । लकारयुक्त मूलमन्त्र आख्या वाचक शब्द यस्या सा तथा । लकारस्य शक्रबीजस्य वार्थ, 'सेन्द्र ' इति श्रुते । लकारयुक्तस्य मायाबीजस्य वा स्त- ब्धमायेत्यर्थ ॥ ॐ लकाराख्यायै नम ।। लतापूज्या । लवन्ति विनमन्ति अत्यन्तनम्रा भवन्तीति लता परमपतिव्रता अरुन्धत्यादय स्त्रिय , ताभि‌‌ स्थिरमा ङ्गल्याय स्वेष्टदेवतात्वेन पूज्या पूजनीया। तदुक्तम्- 'समा राध्य महेशानी भुक्ति मुक्तिं च विन्दति' इति । अथवा, केदारादिगौरीविशेषमूर्तौ लताभि उपलक्षण बन्यपूजोपकरणै पूज्या अलकृता । शबरी वा वनदुर्गा वेति भाव ॥ ॐ लतापूज्यायै नमः ॥ लयस्थित्युद्भवेश्वरी । वैपरीत्येन विशेषण योज्यम् । उद्ध- वतीत्युद्भव कार्यात्मना अभिव्यक्ति । स्थिति ज्ञानविषय तायोग्यकालावच्छेद अनुभवसत्तावत्त्वमिति यावत् । लय