पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । उत्पन्नकार्यस्य कारणात्मना अवस्थिति वाचारम्भणयोग्यते त्यर्थ । तासा क्रियाणाम् अचेतनकार्यत्वायोगेन घटादिकार्ये चेतनस्य निमित्ततादर्शनात् एकतटस्थेश्वरत्व वा, गोपुरादौ नानाचेतनदर्शनात्तादृशनानेश्वरत्व वेति विशये, 'यतो वा इ मानि भूतानि जायन्ते' इति श्रुतौ 'यत ' इत्येकवचनपञ्च म्या नानात्वतटस्थत्वे , 'जनिकर्तु प्रकृति ' इति सूत्रम् । जनि- कर्तुं कार्यस्य प्रकृसिरुपादानमपादानसंज्ञा स्यात्। 'अपादाने पञ्चमी' इति शासनात् अभिन्ननिमित्तोपादनत्वमीश्वरत्वमिति सिद्धान्त । तटस्थलक्षणमेतत् , ज्ञायमानस्य ब्रह्मण लक्षण प्रमाणयो अवश्यवाच्यत्वादित्यभिप्राय । आदौ लयशब्दो पादानेन अनादित्व प्रपञ्चस्य सूचितम् । जगत इति शब्द पूरणन नाम योजनीयम् । तथा च जगत लयश्च स्थितिश्च उद्भवश्च तेषामीश्वरी | कूटस्थचैतन्यमात्रसच्चिदानन्दाधायक तया विवर्तकारणमित्यर्थ ॥ ॐ लयस्थित्युद्भवेश्चर्यै नमः॥ लास्थदर्शनसतुष्टा लाशालाभाविवर्जिता । लङ्घ्येतराज्ञा लावण्यशालिनी लघुसिद्धिदा ॥ लास्यदर्शनसतुष्टा । यथा राजा सपूर्णकाम प्रयोजनम