पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । २३५ दिस्मृतिश्रुतिभ्याम् ईश्वरस्य रूपभेदवत्त्वावगमादिति मन्त व्यम् ॥ ॐ हरिसोदर्यै नम || हाहाहूहुमुखस्तुत्या । हाहाहूहूनामकगन्धौं मुख्यौ येषा अनाना तैस्तथा । स्तुत्या गुणिनिष्ठगुणाभिधान स्तुति । तदाश्रयत्वेन प्रतिपादनीयेत्यर्थ ॥ ॐ हाहाहूहूमुखस्तु त्यायै नम ॥ हानिवृद्धिविवर्जिता । अवयवोपचयरूपा वृद्धि , तदप चयरूपा हानि ताभ्या वर्जिता, 'न कर्मणा वर्धते नो कनीयान्' इति श्रुते । उपलक्षणम् , षड्भावविकाराणा शरीरधर्मत्वेन कर्मनिमित्तत्वादीश्वरे तदभावेन निर्विकारे- त्यर्थ ॥ ॐ हानिद्धिविवर्जितायै नमः ।। हय्यङ्गवीनहदया हरिगोपारुणाशुका। लकारख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥ हय्यनवीनहृदया । हय्यङ्गवीनवत् नवनीतसशविरल मृवयवपरिणामद्रवस्वसादृश्ययोगिहदयकृपारसरूपपरिणा मवतीति सा तथा। हृदयाभावेऽपि सर्वात्मकतथा तस्वम् । ईक्षणादिवन्मायापरिणामरूपा दया वा शब्देन उन्यते। ' अवागमना ' इति श्रुत्या सर्वनिषेधात् ।। ॐ हरयङ्गवी नहृदयायै नमः ।।