पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । २३१ हाकिनी । हाकयति जन्ममरणयो छेदयतीति हा किनी , 'हाक् च्छेदे' इति धातुपाठात् ।। ॐ हाकिन्यै नम ॥ हल्यवर्जिता । हलसबन्धि हल्य कृष्यादिद्वारा जनक त्वम् , तद्वर्जिता, कामादिविहीनशुद्धचैतन्यस्वरूपत्वात् । हल्य कपट मित्रेष्वप्यन्यथा स्वान्त करणाविष्कृति तेन व जिता । अविद्याविरहिततत्त्वपदलक्ष्यार्थभूतत्वादिति यावत् ॥ ॐ हल्यवर्जितायै नम ॥ हरित्पतिसमाराध्या । हरिता दिशा पतय महेन्द्रादय , तै सम्यक् श्रद्धाभक्तिपूर्वकम् आराधितु योग्या । तद्विपक्ष निबर्हणनेष्टप्रापकदैवतत्वादित्यभिसधि ॥ ॐ हरित्पतिस माराध्यायै नम ॥ हठात्कारहतासुरा । हठात्कारेण अतिशीघ्रतया हता पराभूता असुरा असुरपक्षा महिषादयो यया सा तथा, समबलयो किल लोके सामाधुपाय बलाबलविचारणा च भवति । प्रबलस्य तु दुर्बलेषु वैरिषु सिंहस्य मेषेष्विव तदयोगेन अतित्वरयाविचारेणैव देवलोकसुखप्रदा-इति ना मार्थविचारणायामितरेषु केमुतिकन्यायेन तत्कारणत्व ध्व नितमिति योजनीयम् ॥ ॐ हठात्कारहतासुरायै नम ॥