पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । ज्ज्वलतीति । आहोस्वित्, कार्यकारणद्वयरूपवसुदानेन वसु स्वरूपेण वा उज्वलति प्रकाशत इति तथा, 'वसुरन्तरिक्ष सत्' इति श्रुते ॥ ॐ हाटकाभरणोज्ज्वलायै नम ॥ हारहारिकुचाभोगा हाकिनी हल्यवर्जिता । हरित्पतिसमाराध्या हठात्कारहतासुरा ।। हारहारिकुचाभोगा । हरस्य परमेश्वरस्य इमे सबन्धिन हारा ईश्वरत्वाप्तकामत्यनित्यतृप्तत्वादयो गुणा , तान् हरति तद्विपरीताविद्यायाधानेन उत्सादयतीति हारहारी, कु चयोराभोग पर्यन्तभूमि यस्या सा तथा । परमेश्वरस्य तद्विषयकवाग्छया तदेकसक्तमनस्त्वेन तत्कारणीभूताविद्या वशवृस्तित्वेन वशीकृतमायत्वस्वरूपेश्वरत्वसमानाधिकरणा सकामत्वादय अपहता , जीवेश्वरयोरेकन तेषा तद्गुणा- ना च सामानाधिकरण्यायोगादित्यर्थ । तथा च ईश्वरस्य मदिष्टसाधनमित्यन्यत्र पदार्थे बुद्धिमत्त्वस्यैव बहुभवनरूपत या सस्य जगदाकारत्वाधायका-इत्यधिकगुणोत्प्रेक्षाविषयत्वेन भोगस्यातिशयोक्तिरिति द्रष्टव्यम् । अथवा, हारान् मुक्तान ज हरति आदत्ते इति हारहारी कुचाभोगो यस्या सेति तथा षट्प्रकारेण मुक्ताहारेण यथोचितकाल भूषितवतीति भाव ॥ ॐ हारहारिकुचाभोगायै नमः ॥