पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७१
ललितात्रिशतीभाष्यम् ।


करुणया दयया हेतुना अमृताय प्राप्तः सागरः समुद्रो यया सा भागीरथी, करुणामृतसागरा ॥ ॐ करुणामृतसागरायै नमः ॥
 कदम्बकाननावासा । कदम्बनामककल्पवृक्षयुक्तं यत्काननं वनं तत्रावासो गृहं यस्याः सा तथा ॥ ॐकदम्बकाननावासायै नमः ॥
 कदम्बकुसुमप्रिया । कदम्बानां कुसुमानि कदम्बकुसुमानि तेषु प्रिया प्रीतिमतीति यावत् । यद्यपि प्रियशब्दः प्रीतिविषयवाचकः, तथापि कुसुमजन्यप्रीतेरभावेन तद्विषयतायाः वक्तुमशक्यत्वात् तथोक्तम ॥ ॐ कदम्बकुसुमप्रियायै नमः ॥

कन्दर्पविद्या कन्दर्पजनकापाङ्गवीक्षणा ।
कर्पूरवीटिसौरभ्यकल्लोलितककुप्तटा ॥ ३ ॥

 कन्दर्प विद्या । कन्दर्पस्य विद्या तन्निष्ठप्रत्यग्ब्रह्मैक्यज्ञानमित्यर्थः । अथवा विद्याप्रापकत्वात्तदृष्टमूलमन्त्रवर्णसमुदायो विद्येत्युच्यते वेदवाक्येषु उपनिषत्पदवत् । तद्वाच्यार्थत्वात् तथा देवी सूच्यते ॥ ॐ कन्दर्पविद्यायै नमः ॥
 कन्दर्पजनकापाङ्गवीक्षणा । अपाङ्गाभ्यां वीक्षणमपाङ्गवीक्षणम्, ईषद्दर्शनमिति यावत् । कन्दर्पस्य जनकं अपाङ्ग