पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७०
ललितात्रिशतीभाष्यम् ।


त्रेण महदैश्वर्यप्रापिकेति भावः ॥ ॐ कमलाक्ष्यै नमः ॥

 कल्मषघ्नी । कल्मषाणि पापानि हन्ति नाशयतीति क- ल्मषघ्नी, 'अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि' इति भगवद्वचनात् । अथवा वेदान्तमहावाक्यजन्यसाक्षात्काररूपब्रह्मविद्या ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा' इति स्मृतेः, 'न स पापँ श्लोकँ शृणोति' इति श्रुतेश्च ॥ ॐ कल्मषघ्न्यै नमः ॥

 करुणामृतसागरा । करुणया कृपया जातं यदमृतं मोक्षरूपं तस्य सागर इव सागरा । यथा अमृतसमुद्रः स्वयममृतस्वरूपः सन् अन्यानपि लोकान् अमृतपायिमेघाद्विमुक्तामृतेन संजी- वयति, तथा 'ब्रह्म वेद ब्रह्मैव भवति' 'ब्रह्मविदाप्नोति परम्' इत्यादिश्रुत्या स्वयममृतस्वरूपा सती । 'लभते च ततः कामान्मयैव विहितान्हितान्' इति भगवद्वचनेन तत्तदधिकारिकृतकर्मोपासनादिफलस्य देवताप्रापणीयस्य संप्राप्तौ तत्तदधिकारिणा तत्तत्फलं स्थितमिति संभाव्यत इति सागरोपमा । अमृतवत्सर्वसंजीवनी करुणामृतस्य अभिन्नाश्रयत्वात् सागरा, करुणा च भक्तविषयकपरिपाल्यताबुद्धिः । यद्वा, करुणया कृपया अमृताः शाश्वतकीर्तिमत्वेन ब्रह्मादिलोक गताः सागराः सगरराजवश्याः यस्याः सा तथा, यद्वा,