पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
ललितात्रिशतीभाष्यम् ।।


वीक्षणं यस्याः सा । अनेन नाम्ना येषां जडानामपि कुरूपिणां जनानाम् उपरि सकृदीषद्वीक्षणमभिजायते, ते कन्दर्पवद्रूपयौवनसामर्थ्यलक्ष्मीभाजो भवन्तीति ध्वनितम् । यद्वा कन्दर्पस्य जनकः श्रीनारायणः सः यस्याः अपाङ्गवीक्षणे ईषद्भृवल्लिचलने वर्तते, यस्याः आज्ञामात्रवश्यतया महाविष्णुः जगद्रक्षादिकार्यं करोतीति सा तथा इति । अथवा, कन्दर्पजनका महालक्ष्मीः यस्याः अपाङ्गवीक्षणे प्रेर्यतया वर्तते सा तथा । कन्दर्पस्य मन्मथस्य जनकाः उत्पादकाः स्रक्चन्दनादिभोग्यविषयाः ते यस्याः अपाङ्गवीक्षणात् भवन्ति सा तथा । अथवा, चन्द्रस्य वामनेत्रतया अपाङ्गवीक्षणं चन्द्रिकोच्यते । कन्दर्पजनकं अपाङ्गवीक्षणं यस्याः सा तथा । कन्दर्पजनकाशब्देन लक्ष्मीनिवासकमलं लक्ष्यते, तद्वत् अपाङ्गं कमलाक्षीत्यर्थः तन्निरूपितवीक्षणं लोकसंजीवनं यस्याः सा तथा ॥ ॐ कन्दर्पजनकापाङ्गवीक्षणायै नमः ॥
 कर्पूरवीटिसौरभ्यकल्लोलितककुप्तटा । कर्पूरयुक्ताश्च ताः वीटयश्च ताम्बूलकबलानि तासां सौरभ्यं सौगन्ध्यं तैः कल्लोलितानि असकृत्परिमलितानि ककुभां दिशां तटानि प्रदेशाः यस्याः सा । मुखवासितपरिमलेन जगन्मात्रं सुर-