पृष्ठम्:शङ्करविजयः.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
68
शङ्करविजये

एवं मिथः परिणिग​द्य विशेषमृद्वी
वाचायुतौ मृदमवापतुरुत्तमां तौ ।
अन्ये च संमुमुदिरे प्रियसत्कथाभिः
स्वेच्छाविहारहसनैरुभयोर्विधेयाः ॥ ५३ ॥

कन्यावरौ प्रकृतिसिद्धसुरूपवेषौ
दृष्ट्वा द्वयेऽपि परिकर्म विलम्बमानाः ।
चक्रुर्विधेयमिति 1कृत्यमनीश्वरास्ते
शोभाविशेषमपि मङ्गलवासरेऽस्मिन् ॥ ५४ ॥

एतत्प्र​भाप्रतिहतात्मविभूतिभावात्
आकल्पजातमापि नातिशयं वितेने ।
लोकप्रसिद्धिमनुसृत्य विधेयबुद्ध्या
भूषां व्यधुस्तदुभये न विशेषबुद्ध्या ॥ ५५ ॥

मौहूर्तिका बहुविदोऽपि मुहूर्तकालं
अप्राक्षुरक्षतधियं 2किल तां 3सखीभिः ।
पश्चात्तदुक्तशुभयोगयुते शुभांशे
मौहूर्तिकाः स्व​मतितो जगृहुर्मुहूर्तम् ॥ ५६ ॥

जग्राह पाणिकमलं हिममित्रसूनुः
श्रीविष्णुमित्रदुहितुः करपल्ल​वेन ।
भेरीमृदङ्गपटहाध्ययनाब्जघोषै-
र्दिङ्मण्डलेषु परिमूर्छति 4दिव्यकाले ॥ ५७ ॥

यं यं पदार्थमभिकामयते पुमान्यः
तं ते प्रदाय समतूतुषतां तदीड्यौ ।
देवद्रुमाविव महासुमनस्त्व​युक्तौ
संभूषितौ सदसि चेरतुराप्तलाभौ ॥ ५८ ॥


1अ. कर्तुं । 2अ. खलु ।

3का. सखीभ्यः । 4अ. दानकाले ।