पृष्ठम्:शङ्करविजयः.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
67
पष्टस्सर्गः

पित्रानुशिष्टवसुधासु-संहितेन
विज्ञापितस्सुखमवाप स विश्वरूपः ।
कार्याण्यवीवददथाऽऽत्मजनान् समेतान्
बन्धुप्रियः परिणयोचितसाधनाय ॥ ४७ ॥

मौहूर्तिका बहव एत्य मुहूर्त​जातं
1संप्रार्थिता द्विजवरैर्बहुविद्भिरिष्टैः ।
माङ्गल्यवस्तुसहितोऽखिलभूषणाढ्य-
स्संप्रापदक्षततनुः पृथुशोणतीरम् ॥ ४८ ॥

शोणस्य तीरमुपयात2मुपाशृणोत्स
जामातरं बहुविदं किल विष्णुमित्र ।
प्रत्युञ्जगाम मुमुदे प्रियदर्शनेन
प्रावींविशद्गृहममुं बहुवाद्यघोषैः ॥ ४९ ॥

दत्वासनं मृदुवचस्समुदीर्य तस्मै
पाद्यं ददौ स मधुपर्कमनर्घ्य​पात्रे ।
अर्घ्यं ददावहमियं तनया ग्रहास्ते
गावौ हिरण्यमखिलं भवदीयमूचे ॥ ५० ॥

अस्माकमद्य पवितं कुलमदृताः स्म​
सन्दर्शनं परिणयव्यपदेशतोऽभूत् ।
नो चेद्भवान् बहुविदग्रसरः क्व चाहं।
भद्रेण भद्रमुपयानि पुमान्विपाकात् ॥ ५१ ॥

यद्यद्गृहेऽत्र भगवन्निह रोचते ते
तत्तन्निवेद्यमखिलं भवदीयमेतत् ।
वक्ष्यामि सर्वमभिलाषपदं त्वदीयं
युक्तं हि सन्ततमुपासितवृद्धपूगे ॥ ५२ ॥


1अ. संप्रार्थितं । 2अ. उपयान्तम् ।

Sankara--5A