पृष्ठम्:शङ्करविजयः.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
30
शङ्करविजये

इति समीरयति स्थिरबालके
कपटवेषमपास्य निजं वपुः ।
सह गणैश्शिवया च समाददे
नयनगोचरताञ्च शिशोरगात् ॥ १०१ ॥

शिशुरपूर्वजनोदयदर्शनात्
जडिमपात्रमभू1दतिविस्मितः ।
प्रणिपतानि पदानि किमष्यमुं
शिरसि वा निदधानि पदाम्बुजम् ॥ १०२ ॥

2मुनिशिशोर्ज​डिमानमवेक्ष्य तं
हरसमीपगतेन स नन्दिना ।
मुनिसुतेहि न सङ्गममादृथाः
प्रणिपतेश्वरपादसरोरुहम् ॥ १०३ ॥

इति समीरित एव शिशुः क्षणात्
प्रणिपपात तदीयपदाम्बुजम् ।
स्नपयति स्म सुरवाक्षिजलैर्वपुः
न च शशाक शिशुः परिभाषितुम् ।। १०४ ॥

प्रणिपतन्तमुवाच सदाशिवो
मुनिसुतेहि ममाङ्क इहास्स्व भोः ।
पारेकृशोऽसि तपःपारि3पालनात्
यदभिवाञ्छितमद्य ददामि ते ॥ १०५ ॥

मम वधूर्गिरिजा 4त्वथ मोदते
सुतधियन्त्व​धि5कां तमिहेच्छति ।
मम सुतत्रयमद्य पुराजनि
स्फुटमुभौ तनयावधुनैककः ॥ १०६ ॥


1क. दिति । 2अ मुनिसुतैहि न सम्भ्रमाद्यथा ।

3अ. परिशीलनात् । 4अ. त्वयि ।

5अ. त्वयि कृर्तुमिह ।