पृष्ठम्:शङ्करविजयः.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
29
तृतीयस्सर्गः

हरिहय स्पृहयामि न शर्मणे
यदिह कर्म​ जनैरुपलाल्यते ।
न भवतोऽस्ति मनागपि मद्भयं
व्र​ज सुखं दिवमेव यथासुख​म् ॥ ९५ ॥

नरसुखात् किमु 1भेदकमिष्यते
सुरसुख​स्य कृतत्वसमत्वतः ।
जनिमतोऽध्रृवता ध्रुवभाविनी
दिनविशेषकृतोऽतिशयस्तयोः ॥ ९६ ॥

मनुजदेवगणेषु जनिर्म​ता
जनिमतो मरणञ्च समाहृतम् ।
किमु पदैर्मितकालासिता2 ध्रुवैः
हरिविरिञ्चपदैरुपलालितैः ॥ ९७ ॥

मरणजन्मकथोत्थित3म​त्र यत्
4तदभिवाह्य​मनश्वरमक्षरम् ।
5यदुदिता जनता न हि पीड्यते
मरणजन्मजरादिभिरुल्ब​णैः ॥ ९८ ॥

तपसि भक्तिमतो विजनस्थितिः6
बहुजनैस्सह सङ्गमतो वरा ।
न हि समस्त्य​विघातपरम्परा
परिजनैर्भगवानुपहन्ति माम् ॥ ९९ ॥

यदि न यासि हरे बहुसङ्गत-
स्तपसि विघ्न​करो यदि वर्तसे ।
परममस्त्रमिदं त्वयि निक्षिपे
परिजनैस्सहसा न भविष्यसि ॥ १०० ॥


1अ. मेदक ईक्ष्यते मेदग इष्यते । 2अ. सित [षोऽन्तकर्मणीतिधातोःक्तान्तं रूपम्]

क. कालतयाऽध्रृवैः का. भवा ।

3अ. कथोज्झितं । 4अ. तदभिवाञ्छय​ ।

5अ. यदु गता ; का. यदि गता । 6अ. स्थता ।