हरिहय स्पृहयामि न शर्मणे
यदिह कर्म जनैरुपलाल्यते ।
न भवतोऽस्ति मनागपि मद्भयं
व्रज सुखं दिवमेव यथासुखम् ॥ ९५ ॥
नरसुखात् किमु 1भेदकमिष्यते
सुरसुखस्य कृतत्वसमत्वतः ।
जनिमतोऽध्रृवता ध्रुवभाविनी
दिनविशेषकृतोऽतिशयस्तयोः ॥ ९६ ॥
मनुजदेवगणेषु जनिर्मता
जनिमतो मरणञ्च समाहृतम् ।
किमु पदैर्मितकालासिता2 ध्रुवैः
हरिविरिञ्चपदैरुपलालितैः ॥ ९७ ॥
मरणजन्मकथोत्थित3मत्र यत्
4तदभिवाह्यमनश्वरमक्षरम् ।
5यदुदिता जनता न हि पीड्यते
मरणजन्मजरादिभिरुल्बणैः ॥ ९८ ॥
तपसि भक्तिमतो विजनस्थितिः6
बहुजनैस्सह सङ्गमतो वरा ।
न हि समस्त्यविघातपरम्परा
परिजनैर्भगवानुपहन्ति माम् ॥ ९९ ॥
यदि न यासि हरे बहुसङ्गत-
स्तपसि विघ्नकरो यदि वर्तसे ।
परममस्त्रमिदं त्वयि निक्षिपे
परिजनैस्सहसा न भविष्यसि ॥ १०० ॥
1अ. मेदक ईक्ष्यते मेदग इष्यते । 2अ. सित [षोऽन्तकर्मणीतिधातोःक्तान्तं रूपम्]
क. कालतयाऽध्रृवैः का. भवा ।
3अ. कथोज्झितं । 4अ. तदभिवाञ्छय ।
5अ. यदु गता ; का. यदि गता । 6अ. स्थता ।