पृष्ठम्:शङ्करविजयः.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
172
शङ्करविजये

दृष्ट्वा भयानकमुखं पृथुवक्त्रघोणं
वेशन्तपङ्कपरिलिप्तसमस्तगात्रम् ।
घोराेञ्चशब्दपरिभीषिलोक​मुग्रं
भूदारयूथमविशन्निशि पक्व​शालीन् ॥ ४२ ॥

कैदार्यमाद च जगर्ज च भीमनादं
पादाभिघातपरिचूर्णितमञ्जरीकम् ।
नाबुद्ध गोपकुलमुग्र1 महान्धकारे
निद्राभिभूतमुदयावधि धर्मरश्मेः ॥ ४३ ॥

उत्थाय गोपक​कुलं परिन​ष्टसस्यं
तुन्दं जघान च विलोक्य विहाय पत्युः ।
तच्चापरत्र​ दिवसे न चकार​ निद्रां
2ऊत्कालयन्किल कुलं परिवात्प्रजाहः ॥ ४४ ॥

दीयालिकोत्सवमभूत्प्रथितं नगर्यां
सर्वे य​दर्थमुपयुङ्क्त​ च मोदमानः ।
जग्राह नूत्नवसनं मलिनं न्यधावी-
दामुञ्चताम​रणबृन्दमम​ल्पशोभम् ॥ ४५ ॥

रथ्यापङ्गणाणगृहाणि ममार्ज यत्नात्
ताेयैरसिक्त परिमण्डयति स्म भक्त्या ।
द्वारेषु पूर्णकलशानपि पूगवृक्षान्
पुञ्चैर्युतान् कदलिकास्सफला न्यघाच्च ॥ ४६ ॥

सेवानुरूपमददाद्व​सनार्थजातं
भृत्यादिकाय धनिकः स्वयमप्यव​स्त ।
वस्त्रं नवं बहुधनं परिमण्डिताङ्गः
कर्पूर​चन्दनरसादिकृताङ्गरागः ॥ ४७ ॥


1अ. तरे । 2अ. मुक्त्वाऽऽलपत्करिकुलं परियादृ जागः