पृष्ठम्:शङ्करविजयः.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
171
एकादशस्सर्गः

अभ्रंलिहानि नगरेषु धनाधिनाथाः
सौधानि सेव्यसुख​दानि वधूसहायाः ।
अन्तर्गृहादद्रुतमुपारुरुहुस्समन्तात्
द्रष्टुं विभूतिमनघां शरदोपनीताम् ॥ ३६ ॥

राजापि दुर्गनिलयान् द्विषतो विजेतुं
कालं निरीक्ष्य​ समनीनयदात्मसेनाम् ।
दन्तीन्द्रसैन्धवपदातिरथोपपन्नां
ते दुर्गमात्मनिलयं दृढमाबबन्धुः ॥ ३७ ॥

पक्कानि पिङ्गक​पिशानि नतानि भूमौ
सस्यानि तेषु पतति स्म शुकालिरुत्का ।
हर्तुं प्रसह्य कणिशं न शशाक गोपी
संरक्षितुं कथमलं 1बलिनोऽवला सा ॥ ३८ ॥

पूर्वा दिशं गतवती यदि गोपिकेयं
ते पश्चिमां दिशमयन्ति पलायमानाः ।
सा पश्चिमां गतवती यदि पूर्वदिक्का-
मित्थं तताम शुकसङ्घ​निकालनोत्का ॥ ३९ ॥

श्यामच्छदान्मृदपदान्मृदुभाषमाणान्
चञ्चुप्रदिष्टकणिशान् चटुलीयताक्षान् ।
तादृक्शुकीरनुगतान् पृथुशोणतुण्डान्
को वा निकालयितुमीश्वर ईदृशस्तान् ॥ ४० ॥

सस्यावने कृतनिरन्तरयत्नवत्यै
तस्यै चुकोप शुकभक्षितमुण्डशालीन् ।
दृष्ट्वाधिपो युगपदुद्धतपक्कशालीन्
नैवाक्षमिष्ट लवितुं परवान्निकृष्टः ॥ ४१ ॥


1अ. चलिनो ।