पृष्ठम्:शङ्करविजयः.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
170
शङ्करविजये

अश्वा ग​जास्समवतेरुरमीभ्य उच्चै-
र्यत्नाद्विचक्षणजनरैवतार्यमाणाः ।
दीर्घोन्नताः क्षितितले बहुधाप्युपायैः
लोकस्समायदथ1 लोकयितुं विनोदम् ॥ ३० ॥

केचिद्विलोक्य हरित2स्सहसा प्रसन्ना
ह्रस्वा नदीर्य​युरपूर्वमुपाददानाः ।
विक्रेतुमक्षतधियो वणिजो विदेशात्
क्रेतुं कुरङ्गमद​पूर्वम​पूर्ववस्तु ॥ ३१ ॥

आपूर्णशालिनिच​या बहुमाषगर्भा
मुद्रान्तरा बहुविधाम्बरभारभाजः ।
गोण्यो बलोपहितभद्रमृगाधिपानां
आजग्मुरुच्छ्रितविषाणगचामराणाम् ॥ ३२ ॥

दीर्घद्विख​ण्डकलितां पृथु3पृष्ठलग्नां
पश्चाद्वयीं बलगतां दधतां निकायाः ।
कण्ठावलम्बिबहुनादिसुघण्डिकानां
सर्वाङ्गपाण्डरिमयोगविराजितानाम् ॥ ३३ ॥

आगत्य दूरवणिजो बहिरेव पुर्या
वासाय वेश्म वसनैर्व्य​धुरत्युदारम् ।
आत्मीयगेह इव साधितसर्वसाध्या
अध्युष्य तद्विदधिरे क्रयविक्रयाद्यम् ॥ ३४ ॥

कश्चित्समानयदथात्मगृहं विदेशात्
कश्चिद्विदेशमनयद्गृहतोऽर्थमर्थी ।
कश्चिद्धनं विभजते स्म समानमन्यै
कश्चिद्धनी गणयति स्म गणेयमर्थम् ॥ ३५ ॥


1अ. दवलोकयितुं । 2का. शरदि ।

3अ. पूर्वलग्ना पार्श्वद्वयी ।