पृष्ठम्:शङ्करविजयः.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
173
एकादशस्स​र्गः

केचिज्जहुर्नवनिषेवणमात्तवित्ता
अन्ये महीपतिमुपासिषवोक्तवीर्याः ।
जग्मुर्विदेशमपरे नृपसेवनाय
केचिद्भ​टास्तत उपाययुरन्यहंतोः ॥ ४८ ॥

तस्मिन्महे महति भुषितसर्वगात्राः
कस्तूरिकामलयनादिकृताङ्गरागाः ।
राजा तदीयललनाः पुरुषा निशाम्भो
नालीमुखेन सिसिचुर्भुशमाननादौ ॥ ४९ ॥

राज्ञी नृपं नृपतिरात्मवधूममात्यान्
ते चैनमेवन​परे सिषिचू रसाद्री ।
आर्द्राङ्गवस्त्र​चिकुरा विहिनाट्टहासा
स्संरेजिरे प्रथम​का इव धातुरक्ताः ॥ ५० ॥

राज्ञां विजेतुमनसां प्रथरोऽभ्युपायो
भोगास्पदं बिभविनां धुतपङ्कदोषा ।
आपक्व​सम्यविभवा विशदांबुहृद्या
दीपालिका विजयते गुणपूररस्या ॥ ५१ ॥

श्रुत्वेति सर्वगुणयुक्तश​तां मृगाक्षीं
हेमन्तनाम ऋतुराज उपाजगाम ।
उद्वोदु मि इव लालितधर्मर​श्मिः
सवों गुणी गुणिग​तिः प्रथितो हि लोके ॥ ५२ ॥

उत्पादयन्पनसचूतमुखाङ्घ्रिपाणा
गर्भं वचौ सहसितश्वसनस्सुतीव्रम् ।
यस्माद्भवन्ति पनसेषु शिवाकृतीनि
सूक्ष्माणि बृन्दसहितानि फलानि सद्यः ॥ ५३ ॥