सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
140
शङ्करविजये

तच्छोणिताक्तवसनं प्रतिघस्रमेष
कासारतीरगशिलातलपृष्ठभागे ।
नेनेक्ति भक्तिवशगो न जुगुप्सतेऽसौ
यावन्मलं तदपगच्छति तावदद्धा ॥ ९० ॥

किञ्चित्समाधाय पुरोक्तमंशुकं
निर्णेतुकामस्सरसीत​टं प्रगे ।
प्रयाति संक्षाल्य​ विशुद्धबुद्धये
जिघ्रत्यभीक्ष्णं पुनरेव धावति ॥ ९१ ॥

एवं यतात्मा वसनं दिनेदिने
प्रक्षाल्य 1संवेष्ट्य ददाति भूयसे ।
शोकोऽपि किञ्चिन्मनसीति वर्तते
नाशक्नुवं किञ्चिइपीह वेदितुम् ॥ ९२ ॥

प्रक्षाल्यमानं वसनं यथात्मन-
श्शिरस्समाहन्ति शिलाञ्च कर्कशाम् ।
भक्त्या परं क्षालयतो महात्मनः
पद्यात्मना सा परिणाममीयुषी ॥ ९३ ॥

श्रीमद्गुरोः पादसरोजमूला-
त्त​दा2श्रया तत्करुणावसाना ।
भक्तिर्लता तोटकवृत्तवृन्त-
हृद्यानि पद्यानि फलान्यवाप ॥ ९४ ॥


1अ. संशोध्य ; क-का. संशोष्य । 2अ. तदाश्रयात् ।