पृष्ठम्:शङ्करविजयः.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
141
नवमस्सर्गः

भक्त्युकर्षात्प्रादुरासन्यतोऽस्मा-
त्पद्यान्येवं तोटकाख्यानि सन्ति ।
तस्मादाहुस्ताठकाचार्यमेनं
लोके शिष्टाः शिष्ट1वर्यं मुनीन्द्रम् ॥ ९५ ॥

अद्यापि तत्प्रकरणं प्रथितं पृथिव्यां
तत्संज्ञया लघु महार्थमनल्पनीति ।
शिष्टैर्गृहीत​मतिशिष्टपदानुविद्धं
वेदान्तवेद्यपरतत्त्वनिवेदनं यत् ॥ ९६ ॥

यत्रा2स्त्यसुराङ्गनाविवदनं चापस्य कोट्याह्वयं
तीर्थं वर्णितमुग्रभैरवजयः 3श्रीतोटकेड्येडनम् ।
श्रीमच्छङ्करदेशिकेन्द्रविजये व्यासाद्रिणा निर्मिते
सर्वोऽयं नवमो गतोऽत्र महितः सानन्दनो नन्दनः ॥ ९७ ॥

। इति श्रीशङ्करविजये व्यासाचलीये नवमत्सर्गः ।


1अ. वंश्यं । 2अ. श्रीतोटकस्येडनं ।