पृष्ठम्:शङ्करविजयः.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
139
नवमस्सर्गः

स्नात्वा पुरा क्षिपति क​म्बलवस्त्र1मुख्यै
रुच्चासनं मृदुशतैस्स ददाति नित्यम् ।
सन्तक्ष्य दन्तपरिशोधनकाष्ठमग्र्यं
2बाह्यावनिं गतवते सलिलादिकञ्च ॥ ८५ ॥

श्रीदेशिकाय गुरवे 3तनुमार्द्र​वस्त्रं
विश्राणयत्यनुदिनं विनयोपपन्नः ।
श्रीपादपद्मयुगमर्दनकोविदश्च
छायेव देशिकमसौ भृशमन्विधाय ॥ ८६ ॥

गुरोस्समीपे न तु जातु जृम्भते
प्रसारयेन्नो चरणौ निषीदति ।
4नापेक्षते वा बहु वा न भाषते
न पृष्ठदर्शी पुरतोऽस्य तिष्ठति ॥ ८७ ॥

तिष्ठन्गुरौ तिष्ठति संप्रयाते
गच्छन् बुवाणे विनयेन शृण्वन् ।
5अनुच्यमानो विहितं विधत्ते
यञ्चाहितं तत्कुरुते न तस्य ॥ ८८ ॥

भगन्दरो नाम​ वमन्नज​स्रं
रक्तं विरक्तानपि बाधमानः ।
संबाधते देशिकशङ्करं स्म
उपेक्षितो व्याधिरनल्पतापः ॥ ८९ ॥


1का. मुख्यमुच्चासनं मृदु शनैः । 2अ. बाह्यादिकं ।

3अ. तनुमार्जवस्त्रं । 4अ. नावेक्षते ।

5अ. अनुच्यमानोऽपि हिते ।