सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
107
अष्टमस्सर्गः

रुरोद कश्चिन्मुमुदेऽत्र कश्चित्
जहास पूर्वाचरितं बभाषे ।
कश्चित्प्र​मोदातिशयान्न किञ्चि-
दूचे स्खलद्गीः प्रणनाम कश्चित् ॥ ३८ ॥

ऊचेऽथ तं ज्ञातिजनः प्रमोदी
दृष्ट्वा चिरायाक्षिपदं गतोऽभूः ।
दिदृक्षते त्वां जनतातिहार्दा-
त्तथापि शक्नोति न वीक्षणाय ॥ ३९ ॥

पुत्रास्समित्रा न च बन्धुवर्गः
न राजबाघा न च चोरभीतिः ।
दुःखास्पदा न।त्र विचारहीनं
कृतार्थतामूलपदं यतित्वम् ॥ ४० ॥

प्रसूनवन्तं फलिनं महान्तं
शखोपशाखाचितमेव वृक्षम् ।
बाधन्त​ आगत्य न तद्विहीनं
यथा तथा वा 1धनिनं नृपाद्याः ॥ ४१ ॥

2कुमाररक्षागतमानसाना-
मायाति निद्रापि सुखं न जातु ।
क्व​ देवतार्चा क्व च तीर्थयात्रा
क्व​ वा निषेवा महतां भवेन्नः ॥ ४२ ॥

अश्रौष्म सन्यासकृतं भवन्तं
विप्रात्कुतश्चिद्गृहमागतान्नः ।
कालोऽत्यगात्ते बहुरद्य दैवा-
त्तीर्थस्य हेतोर्गृहमागतस्त्वम् ॥ ४३ ॥


1का. धनिनो । 2का. कुटुम्ब​ ।