पृष्ठम्:शङ्करविजयः.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
108
शङ्करविजये

यथा शकुन्ताः परिवर्धितान् द्रुमान्
समाश्रयन्ते सुखदान्जहत्यपि ।
1परप्रक्लुप्तान्मठदेवतागृहान्
यतिस्समाश्रित्य तथोज्झति ध्रुवम् ॥ ४४ ॥

यथा हि पुष्पाण्य2धिगम्य षट्पद-
स्सङ्गृह्य​ सारं रसमेव भुङ्क्ते ।
तथा यतिस्सारमवाप्नुवन् 3सुखी
गृहाद्गृहादोदनमेव भिक्षते ॥ ४५ ॥

यतिर्विरज्यात्मगतिः कलत्रं
देहं 4गृहं 5संगतमेव 6मुख्यम् ।
विरक्तिभाजस्तनयाः स्व​शिष्याः
किमर्थनीयं 7यातिनो महात्मन् ॥ ४६ ॥

मनोरथानां न समाप्तिरिप्यते
पुनः पुनस्सन्तनुते मनोरथान्8
दारानभीप्सुर्यतते दिवानिशं
तान्प्राप्य तेभ्य​स्तनयानभीप्सति ॥ ४७ ॥

अनाप्नुवन् दुःखमसौ सुतीव्रं
प्राप्नोति चेष्टेन वियुज्यमानः ।
सर्वात्मना कामवशस्य दुःखं
तस्माद्विरक्तिः पुरुषेण कार्या ॥ ४८ ॥


1अ. प्रयुक्तान् । 2अ. अभिगम्य ।

3क. सुखं । 4का. गतं ।

5अ. संयतमेव । 6का. भिक्षते ।

7अ. यतिना ।