पृष्ठम्:शङ्करविजयः.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
106
शङ्करविजये

भुजा यदीया भुवनैकरक्षा-
दीक्षा समग्राधिक​शक्तिभाजः ।
धृताब्ज​ङ्खारिमहायुधाश्च1
क्षेत्रं यतो जातमिदं प्रसिद्धम् ॥ ३२ ॥

ऊरू यदीयौ कमवृत्तशोभौ ।
तृतीयवर्णोदयजन्मभूमी ।
सौन्दर्यसर्वस्वनिधानपात्रे
यतः पराजयित हस्तिहस्तः ॥ ३३ ॥

यस्पादौ जितकच्छपौ मृदुतलौ ध्येयौ मुनीनां गणैः
ब्रह्मेन्द्रादिसुरार्चितौं नख​मणिप्रद्योतिताशामुखौ ।
नानारत्नमयोरुपीठनिहितौ क्लेशानभिज्ञौ सदा
गङ्गायाः पितृवंशतमुपगतौ याभ्यां तुरीयोदयः ॥ ३४ ॥

कवेरकन्यासलिलाभिषिक्तः
श्रीपद्मनाभस्य पदारविन्दे ।
आनर्च नम्रो विनयी विनेयै--
स्ततः प्रतस्थेऽभिमतस्थलाय ॥ ३५ ॥

गच्छन् गच्छन्मार्गमध्याभियातं
गेहं भिक्षुर्मातुलस्याजगाम ।
दृष्ट्वा शिष्यैस्तं चिरेणाभियातं
मोदं प्रापन्मातुलश्शास्त्रवेदी ॥ ३६ ॥

शुश्राव तं बन्धुजनस्सशिष्यं
स्वमातुलागार​मुपेयिवांसम् ।
आगत्य दृष्ट्वा चिरमागतं तं
जहर्ष हर्षातिशयेन साश्रुः ॥ ३७ ॥


1क​. महाग​दाश्च ।