पृष्ठम्:शङ्करविजयः.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
105
 

वस्तुं यदीयं पुलिनं मुरारये
सिन्ध्वन्तरीपे वसते हिरण्मये ।
अरोचतारोचितसर्वदिङ्मुखे
श्रीपद्मनाभाय हिरण्यवाससे ॥ २६ ॥

शय्या तदीया भगवाननन्त-
स्सहस्रमूर्धा सुकुमारभोगः ।
यदीयपादाम्बुजयुग्ममर्थ्ये1
मृद्नाति पद्मा करपल्लवाभ्याम्. ॥ २७ ॥

यत्केशपाशविनिवेशितपुष्पमाला-
सौरभ्यलुब्धमधुपायिगणस्तमन्तात् ।
भ्राम्यन् व्यराजत विरोदितुमागते वा
वेदः स्वयं प्रथितशब्दुमवो हि मूर्तः ॥ २८ ॥

2किरीटमस्योपरि दुर्विभाव्यं
यदीयमुच्चैर्मुनिवृन्ददृश्यम् ।
3संशोधते नूनमितोऽपि 4 जातं
तेजस्त्रयं लोकहितैकवृत्तम् | २९ ॥

यदीयनेत्राम्बुरुहे विशाले
लीकैकदीपाविह पुष्पवन्तौ ।
पद्मापि नित्यं स्पृहयालुरास्ते
यत्पादपद्माय सकृत्सकृद्वा ॥३०॥

यदाननस्योपमितिर्न पङ्कजं
न बालचन्द्रो न च पृणचन्द्रमाः ।
पङ्कोद्भवावृत्तकलङ्कदूषणैः
स्वमेव सा स्वस्य मता महाद्युतेः ॥ ३१ ॥


1अ मध्यं । 2अ मध्योपरि । 3अ। संदृश्यते; संशोभते । 4अ अमिजातम् ।