पृष्ठम्:शङ्करविजयः.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
80
शङ्करविजये
80
शङ्करविजये

सुखाय 1तैर्यत्क्रियते दिवानिशं
सुख​न्न किञ्चिद्ब​हुदुःखमेव तत् ।
विना न हेतुं सुखजन्म दृश्यते
हेतुश्च हेत्वन्तरसन्निधौ भवेत् ॥ १८ ॥

परिपक्व​मतेस्सकृच्छ्रुतं जनयेदात्म​धियं श्रुतेर्वचः ।
परिमन्दमतेश्शनैश्शनैर्गुरुपादाब्जनिषेवणादिना ॥ १९ ॥

प्रणवाभ्यसनोक्तकर्मणोः करणेनापि गुरोर्निषेवणात् ।
अपगच्छति मनसे मलं क्षमते तत्त्वमुदीरितं ततः ॥ २०॥

2मनोऽनुवर्तेत दिवानिशं गुरुं
गुरुर्हि साक्षाच्छिव एव तत्त्व​वित् ।
निजानुवृत्त्या परितोषितो गुरु-
र्विनेयवक्त्रं कुपया 3हि वीक्षते ॥ २१ ॥

स कल्पवल्लीव निजेष्टमर्थे
फलत्यवश्यं किमकार्यम​स्याः ।
आज्ञा गुरोस्सम्परिपालनीया
सा मोदमानाय विघातुमिष्टम् ॥ २२ ॥

गुरूपदिष्टा निजदेवता चेत्
कुप्येत्तदा पालयिता गुरुः स्यात् ।
रुष्टे गुरौ पालयिता न कश्चित
गुरौ न 4तस्माज्जनयेत कोपम् ॥ २३ ॥

पुमान् पुमर्थे लभते 5विचोदितं
भजन्ननर्थं प्रतिषिद्धसेवनात् ।
विधिं निषेधश्च निवेदयत्यसौ
गुरोरनिष्टच्युतिरिष्टसम्भवः ॥ २४ ॥


1अ. यद्यत्क्रियते । 2अ. मनः प्रवर्तेत ।

3अ. अभिवीक्षते । 4अ. जनयीत ।

5अ. हि ।अ. यद्यकियते ।

  • अ. अभिवीक्षते ।

अ. हि।

  • अ. मनः प्रवर्तेत ।
  • अ. जनयीत ।