सुखाय 1तैर्यत्क्रियते दिवानिशं
सुखन्न किञ्चिद्बहुदुःखमेव तत् ।
विना न हेतुं सुखजन्म दृश्यते
हेतुश्च हेत्वन्तरसन्निधौ भवेत् ॥ १८ ॥
परिपक्वमतेस्सकृच्छ्रुतं जनयेदात्मधियं श्रुतेर्वचः ।
परिमन्दमतेश्शनैश्शनैर्गुरुपादाब्जनिषेवणादिना ॥ १९ ॥
प्रणवाभ्यसनोक्तकर्मणोः करणेनापि गुरोर्निषेवणात् ।
अपगच्छति मनसे मलं क्षमते तत्त्वमुदीरितं ततः ॥ २०॥
2मनोऽनुवर्तेत दिवानिशं गुरुं
गुरुर्हि साक्षाच्छिव एव तत्त्ववित् ।
निजानुवृत्त्या परितोषितो गुरु-
र्विनेयवक्त्रं कुपया 3हि वीक्षते ॥ २१ ॥
स कल्पवल्लीव निजेष्टमर्थे
फलत्यवश्यं किमकार्यमस्याः ।
आज्ञा गुरोस्सम्परिपालनीया
सा मोदमानाय विघातुमिष्टम् ॥ २२ ॥
गुरूपदिष्टा निजदेवता चेत्
कुप्येत्तदा पालयिता गुरुः स्यात् ।
रुष्टे गुरौ पालयिता न कश्चित
गुरौ न 4तस्माज्जनयेत कोपम् ॥ २३ ॥
पुमान् पुमर्थे लभते 5विचोदितं
भजन्ननर्थं प्रतिषिद्धसेवनात् ।
विधिं निषेधश्च निवेदयत्यसौ
गुरोरनिष्टच्युतिरिष्टसम्भवः ॥ २४ ॥
1अ. यद्यत्क्रियते । 2अ. मनः प्रवर्तेत ।
3अ. अभिवीक्षते । 4अ. जनयीत ।
5अ. हि ।अ. यद्यकियते ।
- अ. अभिवीक्षते ।
अ. हि।
- अ. मनः प्रवर्तेत ।
- अ. जनयीत ।