पृष्ठम्:शङ्करविजयः.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
79
सप्तमस्सर्गः
79
सप्तमस्सर्गः

1जहीहि देहाधिगतामहंधियं
चिरार्जितां कर्म​चयैस्सुदुस्त्यजाम् ।
विवेकबुद्ध्या परमेव सन्ततं
ध्यात्वात्मभावेन यतो विमुक्तता ॥ १२ ॥

साधारणे वपुषि काकशृगालवह्नि-
मात्रादिकस्य ममतां त्यज दुःखहेतुम् ।
तद्वज्जहीहि बहिरर्थगताञ्च विद्वन्
चित्तं वधान परमात्मनि निर्विशङ्कम् ॥ १३ ॥

तीरात्तीरं सञ्चरन् दीर्घमत्स्यस्तीराद्भिन्नो लिप्यते नापि तेन ।
एवं देही सञ्चरन् जाग्र​दादौ तस्माद्भिन्नो 2नापि तद्धर्मको वा ॥ १४ ॥

जाग्रत्स्वप्नसुषुप्तिलक्षणमिदं3 स्थानत्रयं चिन्तने
त्वय्येवानुगते मिथोव्यभिचरद्धीसंज्ञमज्ञानतः ।
क्लुप्तं रज्ज्विदमंशके वसुमती छिद्रादिदण्डादिवत्
तद्ब्रह्मासि तुरीयमुच्झितभयं मा त्वं पुरेव भ्रमीः ॥ १५ ॥

4प्रत्यक्तमः परपदं विदुषोऽन्तिकस्थं
दूरं तदेव परिमूढमतेर्जनस्य ।
अन्तर्बहिश्च चितिरस्ति न वेत्ति कश्चित्
चिन्वन्बहिर्बहिरहो महिमात्मशक्तेः ॥ १६ ॥

यथा प्रपायां बहवो मिलन्ति
क्षणे द्वितीये बत भिन्नमार्गाः ।
प्रयान्ति 5तद्वद्बहुमानभाजाे
गृहे भवन्त्यत्र न कश्चिदन्ते ॥ १७ ॥


1का. जहीहि देहादिगतां । 2का - नापगाधर्मको वा ।

3अ. पदेऽवस्थात्रयं चित्तनौ । 4का. प्रत्युत्तमं ।

5अ. नाम । का. जहीहि देहादिगतां । अ. पदेऽवस्थात्रयं चित्तनौका - नापगाधर्मको वा ।

  • का. प्रत्युत्तम ।