पृष्ठम्:शङ्करदिग्विजयः.djvu/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सर्गः ६]
75
व्यासदर्शनादिचरितवर्णनम्

इतीदमाकर्ण्य वचो विचिन्त्य स शङ्करं प्राह कुरुष्व मैवम् ।
अनिर्जिताः सन्ति वसुन्धरायां त्वया बुधाः केचिदुदारविद्याः ॥ ५२

जयाय तेषां कति हायनानि वस्तव्यमेव स्थिरधीस्त्वयाऽपि ।
नो चेन्मुमुक्षा भुवि दुर्लभा स्यात् स्थितिर्यथा मातृधुतस्य बाल्ये !| ५३

प्रसन्नगम्भीरभवत्मणीतपबन्धसन्दर्भभवः महर्षः ।
प्रोत्साहत्यात्मविदामृषीणां वरेण्य विश्राणयितुं वरं ते ॥ ५४

अष्टौ वयांसि विधिना तब वत्स दत्ता-
न्यन्यानि चाष्ट भवता सुधियाऽऽर्जितानि ।
भूयोऽपि षोडश भवन्तु भवाज्ञया ते
भूयाच्च भाष्यमिदमारविचन्द्रतारम् ।।५५

त्वमायुषाऽनेन विरोधिवादिगर्वाङ्करोन्मूलनजागरूरूकैः ।
वाक्यैः कुरुष्वोज्झितभेदबुद्धीनद्वैतविद्यापरिपन्थिनोऽन्यान् ॥ ५६

इतीरयन्तं प्रति वाचमूचे स शङ्करः पावितसर्वलोकः ।
त्वत्सूत्रसम्बन्धवशान्मदीयं भाष्यं प्रचारं भुवि यातु विद्वन् ।। ५७

इतीरयित्वा चरणौ ववन्दे यतिर्मुनेः सर्वविदो महात्मा ।
प्रदाय संभाव्य वरं मुनीशो द्वैपायन: सोऽन्तरपाद्यतात्मा ।। ५८

इत्थं निगद्य ऋषिवृष्णि तिरोहितेऽस्मिन्नन्तर्विवेकनिधिरप्यथ विव्यथेसः।
हृत्तापहारिनिरुपाधिकृपारसानां तत्तादृशां कथमहो विरहो विषह्यः ।।५९

तत्पादपद्मे निजचित्तपद्ये पश्यन् कथंचिद्विरहं विषह्य ।
यतिक्षितीशोऽपि गुरोर्नियोगान्मनो दधे दिग्विजये मनीषी ॥६०

भाष्यस्य वार्तिकमथैष कुमारिलेन भट्टेन कारयितुमादरवान् मुनीन्द्रः ।
वन्ध्यायमानदरविन्ध्यमहीधरेण वाचंयमेन चरितां हरितं प्रतस्थे॥६१

ततः स वेदान्तरहस्यवेत्ता भेत्ताऽमतानां तरसा मतानाम् ।
प्रयागमागात्पथमं जिगीषुः कुमारिलं साधितकर्मजालम् ॥ ६२